Thursday, February 26, 2015

Mantra Pushpam......

Mantra Pushpam
and browse through Mantra here-below
|| मंत्र पुष्पम् ||

ॐ
योSपां पुष्पं वेद । पुष्पवान् प्रजावान् पशुमान् भवति । 
चन्द्रमा वा अपां पुष्पम् । पुष्पवान् प्रजावान् पशुमान् भवति । 
य एवं वेद । योSपां आयतनम् वेद । आयतनवान् भवति । 

अग्निर्वा अपामायतनम् । आयतनवान् भवति । 
योSग्नेरायतनम् वेद । आयतनवान् भवति । 
आपोवा अग्नेरायतनम्। आयतनवान् भवति । 
य एवं वेद । योSपां आयतनम् वेद । आयतनवान् भवति । 

वायुर्वा अपामायतनम् । आयतनवान् भवति । 
यो वायोरायतनम् वेद । आयतनवान् भवति ।  
आपो वै वायोरायतनम्। आयतनवान् भवति । 
य एवं वेद । योSपां आयतनम् वेद । आयतनवान् भवति । 

असौ वै तपन्नपामायतनम् । आयतनवान् भवति ।  
योSमुष्य  तपत आयतनम् वेद । आयतनवान् भवति । 
आपो वा अमुष्य तपत आयतनम्। आयतनवान् भवति ।
य एवं वेद । योSपां आयतनम् वेद । आयतनवान् भवति । 

चन्द्रमावा अपामायतनम् । आयतनवान् भवति ।
यश्चन्द्रमस आयतनम् वेद । आयतनवान् भवति । 
आपो वै चन्द्रमस आयतनम् । आयतनवान् भवति ।
य एवं वेद । योSपां आयतनम् वेद । आयतनवान् भवति । 

नक्षत्राणि वा अपामायतनम् । आयतनवान् भवति ।
यो नक्षत्राणाम् आयतनम् वेद । आयतनवान् भवति । 
आपो वै नक्षत्राणाम् आयतनम् । आयतनवान् भवति ।
य एवं वेद । योSपां आयतनम् वेद । आयतनवान् भवति ।

पर्जन्यो वा अपामायतनम् । आयतनवान् भवति ।
यः पर्जन्यस्य आयतनम् वेद । आयतनवान् भवति । 
आपो वै पर्जन्यस्य आयतनम् । आयतनवान् भवति ।
य एवं वेद । योSपां आयतनम् वेद । आयतनवान् भवति ।

संवत्सरो वा अपामायतनम् । आयतनवान् भवति ।
यः संवत्सरस्य आयतनम् वेद । आयतनवान् भवति । 
आपो वै संवत्सरस्य आयतनम् । आयतनवान् भवति ।
य एवं वेद । योSप्सु नावं प्रतिष्ठिताम् वेद । प्रत्येव तिष्ठति । 

ॐ राजाधिराजाय प्रसह्यसाहिने । 
नमो वयं वै श्रवणाय कुर्महे । 
स में कामान् कामकामाय मह्यम् । 
कामेश्वरो वै श्रवणो ददातु । 
कुबेराय वै श्रवणाय। 
महाराजाय नमः । 
ॐ शांतिः शांतिः शांतिः|| 
…… 

Sunday, February 22, 2015

Change Your Luck .....

Many a time we come across truly gifted people struggling to get even in life
It's possible to ascertain such cases through Astrology
In horoscopes where 
Lord of Ascendant  - Lagnaadipathi
&
Lord of 9th - Bhagyaadipathi
are not connected with each other
either by way of aspect, conjunction or association thru other planets
such a condition arises......

and fortunately, there's an answer...

recite daily 
||  भाग्यसूक्तं  ||   

प्रातरग्निं प्रातरिन्द्रम् हमामहे प्रातर्मित्रा-वरुणा-प्रातरश्विनाम् ।
प्रातर्भगं पूषणम् ब्रह्मणस्पतिम् प्रातस्सोममुत रुद्रम् हुवेम ||  १ ||
 प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता । 
आर्ध्रश्चिद्यं मन्य मानस्तुरश्चिद्राजाम् चिद्यम् भगं भक्षीत्याहं || २ || 
 भग-प्रणेत-र्भग सत्यराधो भगेमां धीयमुदवददन्न:।
भगप्रणो जनय गोभिरश्वै-र्भग प्रनृभिः नृवंतरस्याम्  || ३ ||
उतेदानीं भगवंतास्यामोत प्रपित्व उत मध्ये अह्वाम् । 
उतोदिता भगवन सूर्यस्य वयं देवानाम् सुमतौ स्याम || ४ || 
भग एव भगवां अस्तु देवास्तेन वयं भगवन्त:स्याम् ।
तं त्वा भग सर्व इज्जोहवीमि सनो भग पुर एता भवेह || ५ ||
समध्वरायोषसोSनमन्त दधिक्रावेव शुचये पदाय । 
अर्वाचीनं वसुविदं भगन्नो रथमिवास्वाजिन आवहन्तु || ६ || 
अश्वावतीर्गोमतीर्न उषासो वीरवतीम्स्सद-मुच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपिनायूयंपात स्वस्तिभिः सदा नः || ७ ||
यो माSग्ने भागिनं संतमथाभागंचिकीऋषति । 
अभागमग्ने तं कुरु मामग्ने भागिनम् कुरु || ८ ||
........

Monday, February 16, 2015

Success & Prosperity .... आदित्यहृदयं

This is a sure-shot  panacea to overcome all sorts of obstacles in life ...... 
paves the way for Success & Prosperity 

picture courtesy hinduwallpaper

आदित्यहृदयं |
संकल्पः 
मम चिंतितमनोरथ-अवाप्त्यर्थं आदित्यहृदयस्तोत्र महामंत्रजपं करिष्ये ।।
अस्य श्री आदित्यहृदयस्तोत्र महामंत्रस्य
अगस्त्यो भगवान् ऋषिः ।
अनुष्टुप छन्दः ।
आदित्यहृदय-भूतः भगवान् ब्रह्मा देवता ।।
निरस्त अशेषविघ्नस्तया ब्रह्मविद्या-सिद्धौ सर्वत्र जपसिद्धौ च विनियोगः ||
रश्मिमते बीजं । सूर्याय शक्तिः । नमः कीलकम् ।
सर्वत्र जपसिद्धयर्थे जपे विनियोगः।।

रश्मिमते अंगुष्ठाभ्यां नमः ।  समुद्यते तर्जनीभ्यां नमः । देवासुरनमस्कृताय मध्यमाभ्यां नमः । 
विवस्वते अनामिकाभ्यां नमः । भास्कराय कनिष्ठिकाभ्यां नमः । 
भुवनेश्वराय करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
रश्मिमते हृदयाय नमः । समुद्यते  शिरसे स्वाहा । देवासुरनमस्कृताय मंशिखायै वषट् । 
विवस्वते कवचाय हुं । भास्कराय नेत्रत्रयाय वौषट् । भुवनेश्वराय अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
प्रत्नस्य विष्णोरूपं च सत्यर्थस्य च ब्रह्मणः ।
अमृतस्य च मृत्योश्च सूर्य अत्मानं ईमहि ।।
लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि
....
Listen to audio in another window .....
audio source : prajapati online
while you read the lyrics here-below 

।| स्तोत्रम् |।
ततो युद्ध परिश्रान्तं समरे चिन्तया स्थितम् । 
रावणं च अग्रतो दृष्ट्वा युद्धाय समुपस्थितम् || १ || 
देवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । 
उपागम्याब्रवीद्रामं अगस्त्यो भगवान ऋषि: || २ || 
 राम राम महाबाहो श्रुणु गुह्यं सनातनम् । 
येन सर्वानरीन वत्स समरे विजयिष्यसि || ३ || 
आदित्यहृदयँ पुण्यं सर्वशत्रुविनाशनम् ।
जयावहम् जपेन्नित्यं अक्षय्यम् परमं शिवम् || ४ || 
सर्वमंगळमांगळ्यं सर्वपापप्रणाशनम् । 
चिन्ताशोक-प्रशमनं आयुर्वर्धनमुत्तमम् || ५ ||  
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । 
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् || ६ || 
सर्वदेवात्मको ह्येषः तेजस्वी रश्मिभावनः । 
एष देवासुरगणान् लोकान् पाति गभस्तिभिः || ७ || 
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । 
महेन्द्रो धनदः कालो यमस्सोमो ह्यपांपतिः || ८ ||
पितरो वसवस्साध्या ह्यश्विनौ मरुतो मनुः । 
वायुर्वन्हिः प्रजा प्राणः ऋतुकर्ता प्रभाकरः || ९ || 
आदित्य: सविता सूर्यः खगः पूषा गभस्तिमान । 
सुवर्णसदृशो भानुः स्वर्णरेता दिवाकरः || १० ||
हरिदश्व: सहस्रार्चिः सप्तसप्तिर्मरिचिमान । 
तिमिरोन्मथनः शम्भुः त्वष्टा मार्ताण्ड अंशुमान || ११ || 
  हिरण्यगर्भः शिशिरः तपनो भास्करो रविः । 
अग्निगर्भो अदितेः पुत्रः शंखः शिशिरनाशनः || १२ ||
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः ।
घनवृष्टिपांमित्र: विन्ध्यवीथी प्लवंगमः || १३ ||
आतपी मण्डली मृत्युः पिंगळस्सर्वतापनः ।
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः || १४ ||
नक्षत्रग्रहताराणाम् अधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन् नमोSस्तुते || १५ ||
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानाम् पतये दिनाधिपतये नमः || १६ ||
जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः || १७ ||
नम उग्राय वीराय सारंगाय नमो नमः ।
नमः पद्मप्रबोधाय प्रचण्डाय नमो नमः || १८ ||
ब्रह्मेशानाच्युतेषाय सूर्ययादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः || १९ ||
तमोघ्नाय हिमघ्नाय शत्रुघ्नायात्मितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः || २० ||
तप्तचामिकाराभाय वह्नये विश्वकर्मणे ।
नमस्तमोभिनिघ्नाय घृणये लोकसाक्षिणे || २१ ||
नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः || २२ ||
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित:।
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् || २३ ||
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः || २४ ||
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चित् नावसीदति राघव || २५ ||
पूजयस्वैनमेकाग्र: देवदेवं  जगत्पतिम् ।
एतत्रिगुणितम् जप्त्वा युद्धेषु विजयिष्यसि || २६ ||
अस्मिन्क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् || २७ ||
एतत्छ्ुत्वा  महातेजा नष्टशोको अभवत्तदा ।
धारयामास सुप्रीतः राघवः प्रयतात्मवान् || २८ ||
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षं अवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् || २९ ||
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे तस्य घृतोSभवत् || ३० ||
अथ रविः अवदद निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति || ३१ ||

इत्यार्षे श्रीमद्रामायणे वाल्मिकीये आदिकाव्ये युद्धकाण्डे सप्तोतरशततमः सर्गः || 

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं।
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा || 
……

Sunday, February 15, 2015

Sacred Thread..... यज्ञोपवीत धारणम्

On occasions when away from home.... abroad/tour/army &c 
when sacred thread snaps or becomes dirty and requires change
one may do so oneself

आचम्य । 
अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । 
केशव । नारायण । माधव । गोविन्द । विष्णु । मधुसूदन । 
त्रिविक्रम । वामन । श्रीधर । ऋषिकेश । पद्मनाभ । दामोदर ||
गणपति ध्यानम् |
शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजं । प्रसन्नवदनं ध्यायेत सर्वविघ्नोप शान्तये ।।
प्राणायाम्य |
ॐ भू:।  ॐ भुव: ।  ॐ सुव:।  ॐ मह:। ॐ जन:।  ॐ तप:। ॐ सत्यं । 
ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो न: प्रचोदयात् |
ॐ आपोज्योतिरसोमृतं ब्रह्म भूर्भुवस्वरोम् ||
संकल्प:|
ममोपात्त-समस्त दुरित-क्षय-द्वारा   श्री परमेश्वर-प्रीत्यर्थं, 
ब्रह्मतेजो-अभिवृद्धयर्थं,
यज्ञोपवीत धारणम् करिष्ये | 
न्यास:| 
यज्ञोपवीतधारणम् इति महामन्त्रस्य । 
परब्रह्म ऋषि: । 
त्रिष्टुप् छंद:। 
परमात्मा देवता । 
यज्ञोपवीतधारणे विनियोगः || 
if you happen to wear more than one यज्ञोपवीतं
recite this mantra - holding it as prescribed - while wearing each of them
hold it stretched with both hands,  right palm facing up over your head, left palm facing downwards
Top of the knot should be on right palm
यज्ञोपवीतं परमं पवित्रं  प्रजापतेर्यत्सहजं पुरस्तात् । 
आयुष्यमग्र्यं प्रतिमुंच शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ||

 remove the existing thread(s) only after reciting
गायत्री मंत्र 
either 12 or 30 times
to ensure power resident in the
existing thread is duly transferred

आचम्य । 

उपवीतं भिन्नतन्तु जीर्णं कश्मलदूषितम् । 
विसृजामि पुनर्ब्रह्मन वर्चो दीर्घायुरस्तु मे ||

discard the used thread 
समुद्र-गच्छ स्वाहा

Wednesday, February 11, 2015

Shiva-Panchakshari

श्री शिव-पंचाक्षरी महा-मंत्र:


अस्य श्री शिवपंचाक्षरी - महामन्त्रस्य |
अंगन्यास 
वामदेव ऋषि:| पंक्तिश्छन्द:|  श्री साम्बपरमेश्वरो देवता | 
ॐ  बीजं | नं शक्ति:| मं कीलकम् | 
श्रीसाम्बपरमेश्वर-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
ॐ  अंगुष्ठाभ्यां नमः ।  नं  तर्जनीभ्यां नमः । मं मध्यमाभ्यां नमः । 
शिम् अनामिकाभ्यां नमः । वां कनिष्ठिकाभ्यां नमः । 
यं करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
ॐ हृदयाय नमः । नं  शिरसे स्वाहा । मं मंशिखायै वषट् । 
शिम् कवचाय हुं । वां नेत्रत्रयाय वौषट् । यं अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
शान्तं पद्मासनस्थं शशिधर-मकुटं पञ्चवक्त्रं त्रिनेत्रं 
शूलं वज्रं च खड्गं परशु-मभयदं दक्षभागे वहन्तम् ।
नागम् पाशं च घंटाम् प्रलय-हुतवहं सांकुशं वामभागे
नानालंकारयुक्तम् स्फटिकमणि-निभं पार्वतीशम् नमामि ||

लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 
मंत्र:||
ॐ नम: शिवाय |।

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं।
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा ||  

अत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं 
पूजा ते विषयो-पभोग-रचना निद्रा समाधि स्तिथि:। 
संचारः पदयोः प्रदक्षिण-विधि: स्तोत्राणि सर्वागिरो
यद्यत्कर्म करोमि तत्तदखिलम् शम्भो तवाराधनम् || 

करचरणकृतं वाक्कायजं कर्मजं वा
श्रावणनयनजं वा मानसं वाSपराधम । 
विहित-मविहितं वा सर्वमेतत् क्षमस्व 
जय जय करुणाब्धे श्री महादेव शंभो ||


.....

Shakti-Panchakshari

श्री शक्तिपंचाक्षरी मंत्र:

अस्य श्री शक्तिपंचाक्षरी - महामन्त्रस्य |
अंगन्यास 
वामदेव ऋषि:| अनुष्टुप् छन्द:|  श्री साम्बसदाशिवो देवता | 
ह्रां बीजं | ह्रीं शक्ति:| ह्रूं कीलकम् | 
श्रीसाम्बसदाशिव-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
ॐ ह्रां: अंगुष्ठाभ्यां नमः ।  ॐ ह्रीं तर्जनीभ्यां नमः । ॐ ह्रू: मध्यमाभ्यां नमः । 
ॐ ह्रैं: अनामिकाभ्यां नमः । ॐ ह्रौं: कनिष्ठिकाभ्यां नमः । 
ॐ ह्रः करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
ॐ ह्रां:हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रू:शिखायै वषट् । 
ॐ ह्रैं: कवचाय हुं । ॐ ह्रौं:नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
मूले कल्पद्रुमस्य द्रुतकनकनिभम् चारूपद्मासनस्थम्
वामांकारूढ़-गौरी-निबिड़-कुचभराभोग-गाढोपगूढम् ।
नानालंकारकान्तं वर-परशु-मृगाभीति-हस्तं त्रिनेत्रं
वन्दे बालेन्दुमौलिं गजवदन गुहाश्लिष्टपार्श्वं महेशम् ||

लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 
मंत्र:||

ॐ ह्रीं नमश्शिवाय |।

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं।
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा ||
.....

Lingashtakam.....


 Mallikarjuneshwar


ब्रह्ममुरारि-सुरार्चित-लिंगं निर्मल-भाषित-शोभित-लिंगं | 
 जन्मजदुःख-विनाशक-लिंगं तत्प्रणमामि सदाशिव-लिंगं |१| 

देवमुनि-प्रवरार्चित-लिंगं कामदहं करुणाकर-लिंगं | 
रावणदर्प-विनाशन-लिंगं तत्प्रणमामि सदाशिव-लिंगं |२| 

सर्वसुगन्धि-सुलेपित-लिंगं बुद्धिविवर्धन-कारणलिंगं | 
सिद्धसुरासुर-वन्दितलिंगं तत्प्रणमामि सदाशिव-लिंगं |३| 

कनकमहामणि-भूषितलिंगं फणिपति-वेष्टित-शोभितलिंगं | 
दक्षसुयज्ञ-विनाशनलिंगं तत्प्रणमामि सदाशिव-लिंगं |४| 

 कुंकुमचन्दन-लेपितलिंगम् पंकजहार-सुशोभितलिंगं |  
सञ्चित-पाप-विनाशनलिंगम् तत्प्रणमामि सदाशिव-लिंगं |५| 

देवगणार्चित-सेवितलिंगं भावैर्भक्तिभिरेव च लिंगं | 
दिनकरकोटि-प्रभाकरलिंगम् तत्प्रणमामि सदाशिव-लिंगं |६| 

 अष्टदलोपरि वेष्टितलिंगं सर्वसमुद्भव-कारणलिंगम् | 
अष्टदरिद्र-विनाशकलिंगं तत्प्रणमामि सदाशिव-लिंगं  |७| 

सुरगुरु-सुरवर-पूजितलिंगं सुरवनपुष्प-सदार्चितलिंगं | 
परात्पर-परमात्मकलिंगं तत्प्रणमामि सदाशिव-लिंगं  |८|
.......