पितृतर्पण विधि
आचम्य
अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः ।
केशवा । नारायणा । माधवा । गोविन्दा । विष्णु । मधुसूदना ।
त्रिविक्रमा । वामना । श्रीधरा । ऋषिकेशा । पद्मनाभा । दामोदरा ||
गणपति-ध्यानम्
शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजं । प्रसन्नवदनं ध्यायेत सर्वविघ्नोप शान्तये ।।
प्राणायम्य
ॐ भू:। ॐ भुव: । ॐ सुव:। ॐ मह:। ॐ जन:। ॐ तप:। ॐ सत्यं ।
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो न: प्रचोदयात् |
ॐ आपोज्योतिरसोमृतं ब्रह्म भूर्भुवस्वरोम् ||
संकल्पं
ममोपात्त-समस्त दुरित-क्षय-द्वारा श्री परमेश्वर-प्रीत्यर्थं,
अपवित्रः पवित्रो वा सर्वावस्थां गतोSपि वा |
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर: शुचिः ||
मानसं वाचिकं पापं कर्मणा समुपार्जितम् |
श्रीराम स्मरणेनैव व्यपोहति न संशयः ||
श्री राम राम राम ||
तिथिर्विष्णुस्तथा वारो नक्षत्रं विष्णुरेव च |
योगश्च करणं चैव सर्वं विष्णुमयं जगत् ||
श्री गोविन्द गोविन्द गोविन्द ||
अद्य श्रीभगवतः
महापुरुषस्य
विष्णोराज्ञया
प्रवर्तमानस्य आद्यब्रह्मणः द्वितीयपरार्धे , श्वेतवराहकल्पे
वैवस्वतमन्वन्तरे,
अष्टाविन्शतितमे
कलियुगे प्रथमे पादे
जम्बुद्वीपे, भारतवर्षे भरतखण्डे
--- मेरोर्दक्षिणे पार्श्वे शकाब्दे
अस्मिन् वर्तमाने व्यावहारिके,
प्रभवादि षष्टिसंवत्सराणां मध्ये
(अमुक Name ) संवत्सरे ...
उत्तरायने OR /दक्षिणायने
..... (season) ऋतौ
(solar month) .... मासे
(lunar half : Bright शुक्ल ...Dark कृष्ण ) पक्षे
......(tithi ) पुण्यतिथौ ||
(
प्राचिनावीती)
वसुरुद्रादित्य-स्वरूपाणाम
पितृ-पितामह-प्रपितामहानां
मातृ-पितामही-प्रपितामहीनां,
सपत्नीक-मातामह-मातुः-प्रपितामहीनां
उभयवंश-पितृणां
अक्षय्य-तृप्यर्थं
अमावस्या (tithi) पुण्यकाले
तिलतर्पणं करिष्ये ||
उपवीती - अप उपस्पृश्य - प्रचीनावीती। ...
(दक्षिणाग्रम कूर्च निधाय )
आवाहनम् ||
आयात पितरः गंभिरैः पतिभिः पूर्व्यैः |
प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्व च शतशारदं च |
अस्मिन् कूर्चे वर्गद्वय-पितृन् आवाहयामि ||
आसनम् |
सकृदाच्छिन्नं वर्हिरूर्णामृदु |
स्योनं पितृभ्यस्त्वाभराम्यहम् |
अस्मिन्थसीदन्तु मे पितरः सोम्याः |
पितामहाः प्रपितामहाश्चानुगैस्सह ||
वर्गद्वय पितृणांमिदमासनम् |
सकलाराधनैः स्वर्चितम् ||
तर्पणम् |
पितृवर्गः ||
उदीरता-मवर उन्मध्यमा पितरस्सोम्यासः |
असुं य ईयु-रवृका योऽवन्तु पितरो हवेषु ||
(Gotra name कौशिक) गोत्रान् श्री (Father's'Name कृष्ण) शर्मणः
वसुरूपान् पितृन् स्वधा नमस्तर्पयामि ||
अन्गिरसो नः पितरो न वग्वा अथर्वाणो भृगवः सोम्यासः |
तेषाम् वयं सुमतौ यज्ञियनामपि भद्रे सौमनसे स्याम ||
(Gotra name कौशिक) गोत्रान् श्री (Father's'Name कृष्ण) शर्मणः
वसुरूपान् पितृन् स्वधा नमस्तर्पयामि |||
आयन्तु नः पितरस्सोम्यासोSग्निश्वाताः पथिभिर्देवयानैः |
अस्मिन् यज्ञे स्वधया मदन्त्वधिब्रुवन्तु ते अवन्त्वस्मान् ||
(Gotra name कौशिक) गोत्रान् श्री (Father's'Name कृष्ण) शर्मणः
वसुरूपान् पितृन् स्वधा नमस्तर्पयामि ||
ऊर्जं वहन्ती-रमृतं घृतं पयः कीलालं परिस्त्रुतं स्वधास्थ् तर्पयत् मे पितृन् ||
तृप्यत,तृप्यत,तृप्यत ||
(Gotra name कौशिक) गोत्रान् श्री (GrandFather's Name नारायण ) शर्मणः
रुद्ररूपान् पितामहान् स्वधा नमस्तर्पयामि ||
पितृभ्यः स्वधाविभ्यः स्वधा नमः |
पितामहेभ्यः स्वधाविभ्यःस्वधा नमः |
प्रपितामहेभ्यः स्वधाविभ्यःस्वधा नमः |
(Gotra name कौशिक) गोत्रान् श्री (GrandFather's Name नारायण ) शर्मणः
रुद्ररूपान् पितामहान् स्वधा नमस्तर्पयामि ||
ये चेह पितरो ये च नेह यां श्च विद्मयां उ च न प्रविद्म |
अग्ने तान् वेत्थ यदि ते जातवेदस्तया प्रतं स्वधया मदन्ति ||
(Gotra name कौशिक) गोत्रान् श्री (GrandFather's Name नारायण ) शर्मणः
रुद्ररूपान् पितामहान् स्वधा नमस्तर्पयामि ||
मधु वाता ऋतायते | मधु क्षरन्ति सिन्धवः |
माध्वीर्न: सन्त्वोषधीः ||
(Gotra name कौशिक) गोत्रान् श्री (GreatGrandFather's Name वेन्कटेश्वर ) शर्मणः
आदित्यरूपान् प्रपितामहान् स्वधा नमस्तर्पयामि ||
मधु नक्तमुतोषसि | मधुमत् पार्थिवं रजः |
मधु द्यौरस्तु नः पिता ||
(Gotra name कौशिक) गोत्रान् श्री (GreatGrandFather's Name वेन्कटेश्वर ) शर्मणः
आदित्यरूपान् प्रपितामहान् स्वधा नमस्तर्पयामि ||
मधुमान्नो वनस्पतिः | मधु मं अस्तु सूर्यः |
माध्वीर्गावो भवन्तु नः ||
(Gotra name कौशिक) गोत्रान् श्री (GreatGrandFather's Name वेन्कटेश्वर ) शर्मणः
आदित्यरूपान् प्रपितामहान् स्वधा नमस्तर्पयामि ||
Here.. Mother's Name is to be used and if these are not known,
one may use the names given in brackets
father's mother
(Gotra name कौशिक) गोत्रान् (Name सीता) दाः
वसुरूप: मातृ: स्वधा नमस्तर्पयामि || 3 times
grandfather's mother
(Gotra name कौशिक) गोत्रान् (Name लक्ष्मी) दाः
रुद्ररूपा : पितामहीः स्वधा नमस्तर्पयामि || 3 times
great-grandfather's mother
(Gotra name कौशिक) गोत्रान् (Name रुक्मिणी) दाः
आदित्यरूपा : प्रपितामहीः स्वधा नमस्तर्पयामि || 3 times
========================================================================
मातामह वर्गः
(Gotra name कौशिक) गोत्रान् श्री (Father's Name कृष्ण) शर्मणः
वसुरूपान् मातामहान् स्वधा नमस्तर्पयामि || 3 times
Gotra name कौशिक) गोत्रान् श्री (GrandFather's Name नारायण) शर्मणः
रुद्ररूपान् मातुः पितामहान् स्वधा नमस्तर्पयामि || 3 times
Gotra name कौशिक) गोत्रान् श्री (GreatGrandFather's Name वेन्कटेश्वर) शर्मणः
आदित्यरूपान् मातुः प्रपितामहान् स्वधा नमस्तर्पयामि || 3 times
(Gotra name कौशिक) गोत्रान् (Name गौरी) दाः
वसुरूपा : मातामहीः स्वधा नमस्तर्पयामि || 3 times
(Gotra name कौशिक) गोत्रान् (Name पार्वती) दाः
रुद्ररूपा : मातुः -पितामहीः स्वधा नमस्तर्पयामि || 3 times
(Gotra name कौशिक) गोत्रान् (Name मीनाक्षी) दाः
आदित्यरूपा : मातुः -प्रपितामहीः स्वधा नमस्तर्पयामि || 3 times
ऊर्जं वहन्तीर-अमृतं घृतं पयः कीलालं परिस्त्रुतं स्वधास्थ् तर्पयत् मे पितृन् |
तृप्यत,तृप्यत,तृप्यत ||
**
उपवीती |
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च |
नमः स्वधायै स्वाहायैनित्यमेव नमो नमः ||
(प्रदक्षिणं कृत्य ) ||
अभिवादये नमस्कारः ||
(प्राचीनावीती)
आयात पितरः गम्भीरैः पथिभिः पूर्व्यैः |
प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं च ||
अस्मात् कूर्चात् वर्गद्वय-पितृन् यथास्थानं प्रतिष्ठापयामि ||
(पवित्रं कर्णे निधाय | उपवीती | आचम्य | पवित्रं धृत्वा | प्राचीनावीती )
येषां न माता न पिता न मित्र-ज्ञाति-बान्धवाः |
ते सर्वे तृप्ति-मायान्तु मयोत्सृष्ठैः कुशोदकैः ||
इति कूर्चं विस्त्रस्य कुशोदकं निनयेत् |
पवित्रं विसृज्य | उपवीती|- आचमेत् ||
ब्रह्मयज्ञं*** कुर्यात् .....
==================================
Seasons ....
ऋतु
वसन्त .... mid April - mid June
ग्रीष्म mid June - mid August
वर्षा mid August - mid October
शरद् mid October - mid December
हेमन्त mid December - mid February
शिशिर mid February - mid April
Weekdays
भानुवासर Sunday
इन्दुवासर Monday
भौमवासर Tuesday
सौम्यवासर Wednesday
गुरुवासर Thursday
भृगुवासर Friday
स्थिरवासर Saturday