Saturday, April 14, 2018

Brahma Yagya.... ब्रह्मयज्ञ:

ब्रह्मयज्ञ: 
आचम्य
अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । 
केशवा  । नारायणा । माधवा  । गोविन्दा  । विष्णु । मधुसूदना  । 
त्रिविक्रमा  । वामना  । श्रीधरा  । ऋषिकेशा  । पद्मनाभा  । दामोदरा  ||

गणपति-ध्यानम् 
शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजं । प्रसन्नवदनं ध्यायेत सर्वविघ्नोप शान्तये ।।

प्राणायम्य 
ॐ भू:।  ॐ भुव: ।  ॐ सुव:।  ॐ मह:। ॐ जन:।  ॐ तप:। ॐ सत्यं । 
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो न: प्रचोदयात् |
ॐ आपोज्योतिरसोमृतं ब्रह्म भूर्भुवस्वरोम् ||

संकल्पं 
ममोपात्त-समस्त दुरित-अक्षय-द्वारा   श्री परमेश्वर-प्रीत्यर्थं,
ब्रह्मयज्ञं करिष्ये |

ब्रह्मयज्ञेन यक्ष्ये ||

विद्युदसि विद्यमे पाप्मान-मृतात् सत्यमुपैमि ।
(हस्तावणिज्य । त्रिराचमेत । द्विः परिमृज्य । सकृदुपस्पृश्य ।
शिरश्चक्षुषी नासिके श्रोत्रे हृदयमालभ्य )||

ॐ भू:, तत्सवितुर्वरेण्यं |
 ॐ भुव:,  भर्गो देवस्य धीमहि ।
ॐ सुव:,धियो यो न: प्रचोदयात् |
ॐ भू:, तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
ॐ भुव:, धियो यो न: प्रचोदयात् |
ॐ सुव:, तत्सवितुर्वरेण्यं,  भर्गो देवस्य धीमहि, धियो यो न: प्रचोदयात् |

हरिः ॐ | अग्निमीळे पुरोहितं, यज्ञस्य देवमृत्विजम् |
होतारं रत्न-धातमम् || हरिः ॐ |

 हरिः ॐ | ईषे त्वोर्जे त्वा वायवस्थो पायवस्थ देवोवस्सविता
प्रार्पयतु श्रेष्टतमाय कर्मणे || हरिः ॐ |

हरिः ॐ | अग्न आयाहि वीतये गृणानो हव्यदातये |
नि होता सत्सि बर्हिषि | हरिः ॐ |

हरिः ॐ | शन्नो देवीरभिष्टय आपो भवन्तु पीतये |
शं योरभिस्त्रवन्तुनः || हरिः ॐ |

ॐ  भूर्भुवस्वः | सत्यं तपः श्रद्धायाम् जुहोमि ||

ॐ नमो ब्रह्मणे नमो अस्त्वग्न्ये नमः पृथिव्यै नम ओषधीभ्यः |
नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि | (एवं त्रिः )||

वृष्टिरसि वृश्चमे पाप्मानं ऋतात सत्यमुपागाम ||

(हस्तावनिज्य) | देवर्षि-पितृ-तर्पणं करिष्ये ||
ब्रह्मादयो ये देवास्तान देवाँस्तर्पयामि |
सर्वान देवानस्तर्पयामि |
 सर्वदेवतागणांस्तर्पयामि |
 सर्वदेवपत्निस्तर्पयामि |
  सर्वदेवगणपत्निस्तर्पयामि ||

(निवीती ) कृष्णद्वैपायनादयो ये ऋषयस्तान ऋषींस्तर्पयामी |
सर्वान् ऋषींस्तर्पयामी |
 सर्वर्षिगणांस्तर्पयामि |
सर्वर्षिपत्नीस्तर्पयामि |
 सर्वर्षिगणपत्नीस्तर्पयामि ||

प्रजापतिं काण्डऋषिं तर्पयामि |
सोमं काण्डऋषिं तर्पयामि |
अग्निं काण्डऋषिं तर्पयामि |
विश्वान् देवान काण्डऋषिं तर्पयामि |

साँहितिर्देवता  उपनिषदस्तर्पयामि |
याज्ञिकीर्देवता उपनिषदस्तर्पयामि |
वारुणिर्देवता उपनिषदस्तर्पयामि |
हव्यवाहं तर्पयामि |
 विश्वान् देवान काण्डऋषिं तर्पयामि ||

ब्रह्माणमस्वयम्भुवम् तर्पयामि |

विश्वान् देवान काण्डऋषिं तर्पयामि |
अरुणान् काण्डऋषिं तर्पयामि |
सदसस्पतिम् तर्पयामि |
ऋग्वेदं तर्पयामि |
यजुर्वेदं तर्पयामि |
सामवेदं तर्पयामि |
अथर्ववेदं तर्पयामि |
इतिहासपुराणम् तर्पयामि |
कल्पम् तर्पयामि |

(प्राचीनावीती) सोमः पितृमान्
यमो अंगीरस्वान्
अग्निकव्यवाहनादयो
ये पितरस्तान्  पितृंस्तर्पयामि |
सर्वान्  पितृंस्तर्पयामि |
सर्व पितृगणास्तर्पयामि |
सर्व  पितृं-पत्नी-स्तर्पयामि |
सर्व पितृगण-पत्नी-स्तर्पयामि |

ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिश्रुतं स्वधास्थ तर्पयत् में पितृन् ||
तृप्यत,  तृप्यत,  तृप्यत ||
उपवीती | आचमेत || 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.