Wednesday, February 11, 2015

Shiva-Panchakshari

श्री शिव-पंचाक्षरी महा-मंत्र:


अस्य श्री शिवपंचाक्षरी - महामन्त्रस्य |
अंगन्यास 
वामदेव ऋषि:| पंक्तिश्छन्द:श्री साम्बपरमेश्वरो देवता
ॐ  बीजं | नं शक्ति:| मं कीलकम्
श्रीसाम्बपरमेश्वर-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
ॐ  अंगुष्ठाभ्यां नमः ।  नं  तर्जनीभ्यां नमः । मं मध्यमाभ्यां नमः । 
शिम् अनामिकाभ्यां नमः । वां कनिष्ठिकाभ्यां नमः । 
यं करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
ॐ हृदयाय नमः । नं  शिरसे स्वाहा । मं मंशिखायै वषट् । 
शिम् कवचाय हुं । वां नेत्रत्रयाय वौषट् । यं अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
शान्तं पद्मासनस्थं शशिधर-मकुटं पञ्चवक्त्रं त्रिनेत्रं 
शूलं वज्रं च खड्गं परशु-मभयदं दक्षभागे वहन्तम् ।
नागम् पाशं च घंटाम् प्रलय-हुतवहं सांकुशं वामभागे
नानालंकारयुक्तम् स्फटिकमणि-निभं पार्वतीशम् नमामि ||

लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 
मंत्र:||
ॐ नम: शिवाय |।

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा ||  

अत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं 
पूजा ते विषयो-पभोग-रचना निद्रा समाधि स्तिथि:। 
संचारः पदयोः प्रदक्षिण-विधि: स्तोत्राणि सर्वागिरो
यद्यत्कर्म करोमि तत्तदखिलम् शम्भो तवाराधनम् || 

करचरणकृतं वाक्कायजं कर्मजं वा
श्रावणनयनजं वा मानसं वाSपराधम । 
विहित-मविहितं वा सर्वमेतत् क्षमस्व 
जय जय करुणाब्धे श्री महादेव शंभो ||


.....

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.