Monday, February 2, 2015

Surya Namaskar सूर्य नमस्कार - मंत्र:

 |। सूर्य नमस्कार - मंत्र: ।| 

अस्य श्री सूर्य नमस्कार -महामन्त्रस्य |
अंगन्यास 
अगस्त्यो भगवान ऋषि:| अनुष्टुप् छन्द:|  सूर्यनारायणो देवता | 
ह्रां बीजं | ह्रीं शक्ति:| ह्रूं कीलकम्
श्रीसूर्यनारायण-प्रसाद-सिद्धयर्थे नमस्कारे विनियोग:||
 करन्यास:
ह्रां अंगुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । 
ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । 
ह्र: करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
ह्रां  हृदयाय नमः । ह्रीं शिरसे स्वाहा । ह्रूं शिखायै वषट् । 
ह्रैं कवचाय हुं । ह्रौं नेत्रत्रयाय वौषट् । ह्र: अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् || 

सूर्यं सुंदरलोकनाथममृतं वेदान्तसारम् शिवं 
ज्ञानं ब्रह्ममयं सुरेशममलम् लोकैक चित्तं स्वयं | 
इंद्रादित्य-नराधिपम् सुरगुरुं त्रैलोक्य-चूड़ामणीम् 
ब्रह्मा-विष्णु-शिव-स्वरूप-हृदयं वन्दे सदा भास्करम् ||

लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 

नमस्कार:। 
श्रीमहागणपतये नमः । मित्राय नमः । रवये नमः । सूर्याय नमः ।  भानवे नमः ।  खगाय नमः ।  पूष्णे नमः ।
हिरण्यगर्भाय नमः ।  मरीचये नमः ।  आदित्याय नमः ।  सवित्रे नमः ।  अर्काय नमः ।  भास्कराय नमः ।

मित्र-रविभ्याम्  नमः । सूर्य-भानुभ्याम् नमः ।  खग-पूषभ्याम् नमः । 
हिरण्यगर्भ-मरीचिभ्याम्  नमः । आदित्य-सवितृभ्याम् नमः । अर्क-भास्कराभ्याम् नमः ।

मित्र-रवि-सूर्य-भानुभ्यो नमः ।  खग-पूष-हिरण्यगर्भ-मरीचिभ्यो नमः ।  
आदित्य-सवित्रर्क-भास्करेभ्यो नमः ।

 मित्र-रवि-सूर्य-भानु-खग-पूषभ्यो नमः । हिरण्यगर्भ-मरीचि-आदित्य-सवित्रर्क-भास्करेभ्यो नमः ।

मित्र-रवि-सूर्य-भानु-खग-पूष-हिरण्यगर्भ-मरीचि-आदित्य-सवित्रर्क-भास्करेभ्यो नमः । 

आदित्याय नमः । सोमाय नमः । अंगारकाय नमः । बुधाय नमः । बृहस्पतये नमः । शुक्राय नमः ।
शनैस्चराय नमः । राहवे नमः । केतवे नमः । श्रीसाम्बसदाशिवाय नमः । श्रीगुरुभ्यो नमः । 

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देव
त्वत्प्रसादान्मयि स्थिरा ||
.....

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.