Monday, February 16, 2015

Success & Prosperity .... आदित्यहृदयं

This is a sure-shot  panacea to overcome all sorts of obstacles in life ...... 
paves the way for Success & Prosperity 

picture courtesy hinduwallpaper

आदित्यहृदयं |
संकल्पः 
मम चिंतितमनोरथ-अवाप्त्यर्थं आदित्यहृदयस्तोत्र महामंत्रजपं करिष्ये ।।
अस्य श्री आदित्यहृदयस्तोत्र महामंत्रस्य
अगस्त्यो भगवान् ऋषिः
अनुष्टुप छन्दः
आदित्यहृदय-भूतः भगवान् ब्रह्मा देवता ।।
निरस्त अशेषविघ्नस्तया ब्रह्मविद्या-सिद्धौ सर्वत्र जपसिद्धौ च विनियोगः ||
रश्मिमते बीजं । सूर्याय शक्तिः । नमः कीलकम्
सर्वत्र जपसिद्धयर्थे जपे विनियोगः।।

रश्मिमते अंगुष्ठाभ्यां नमः ।  समुद्यते तर्जनीभ्यां नमः । देवासुरनमस्कृताय मध्यमाभ्यां नमः । 
विवस्वते अनामिकाभ्यां नमः । भास्कराय कनिष्ठिकाभ्यां नमः । 
भुवनेश्वराय करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
रश्मिमते हृदयाय नमः । समुद्यते  शिरसे स्वाहा । देवासुरनमस्कृताय मंशिखायै वषट् । 
विवस्वते कवचाय हुं । भास्कराय नेत्रत्रयाय वौषट् । भुवनेश्वराय अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
प्रत्नस्य विष्णोरूपं च सत्यर्थस्य च ब्रह्मणः ।
अमृतस्य च मृत्योश्च सूर्य अत्मानं ईमहि ।।
लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि
....
Listen to audio in another window .....
audio source : prajapati online
while you read the lyrics here-below 

।| स्तोत्रम् |।
ततो युद्ध परिश्रान्तं समरे चिन्तया स्थितम् । 
रावणं च अग्रतो दृष्ट्वा युद्धाय समुपस्थितम् || १ || 
देवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । 
उपागम्याब्रवीद्रामं अगस्त्यो भगवान ऋषि: || २ || 
 राम राम महाबाहो श्रुणु गुह्यं सनातनम् । 
येन सर्वानरीन वत्स समरे विजयिष्यसि || ३ || 
आदित्यहृदयँ पुण्यं सर्वशत्रुविनाशनम् ।
जयावहम् जपेन्नित्यं अक्षय्यम् परमं शिवम् || ४ || 
सर्वमंगळमांगळ्यं सर्वपापप्रणाशनम् । 
चिन्ताशोक-प्रशमनं आयुर्वर्धनमुत्तमम् || ५ ||  
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । 
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् || ६ || 
सर्वदेवात्मको ह्येषः तेजस्वी रश्मिभावनः । 
एष देवासुरगणान् लोकान् पाति गभस्तिभिः || ७ || 
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । 
महेन्द्रो धनदः कालो यमस्सोमो ह्यपांपतिः || ८ ||
पितरो वसवस्साध्या ह्यश्विनौ मरुतो मनुः । 
वायुर्वन्हिः प्रजा प्राणः ऋतुकर्ता प्रभाकरः || ९ || 
आदित्य: सविता सूर्यः खगः पूषा गभस्तिमान । 
सुवर्णसदृशो भानुः स्वर्णरेता दिवाकरः || १० ||
हरिदश्व: सहस्रार्चिः सप्तसप्तिर्मरिचिमान । 
तिमिरोन्मथनः शम्भुः त्वष्टा मार्ताण्ड अंशुमान || ११ || 
  हिरण्यगर्भः शिशिरः तपनो भास्करो रविः । 
अग्निगर्भो अदितेः पुत्रः शंखः शिशिरनाशनः || १२ ||
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः ।
घनवृष्टिपांमित्र: विन्ध्यवीथी प्लवंगमः || १३ ||
आतपी मण्डली मृत्युः पिंगळस्सर्वतापनः ।
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः || १४ ||
नक्षत्रग्रहताराणाम् अधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन् नमोSस्तुते || १५ ||
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
ज्योतिर्गणानाम् पतये दिनाधिपतये नमः || १६ ||
जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः || १७ ||
नम उग्राय वीराय सारंगाय नमो नमः ।
नमः पद्मप्रबोधाय प्रचण्डाय नमो नमः || १८ ||
ब्रह्मेशानाच्युतेषाय सूर्ययादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः || १९ ||
तमोघ्नाय हिमघ्नाय शत्रुघ्नायात्मितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः || २० ||
तप्तचामिकाराभाय वह्नये विश्वकर्मणे ।
नमस्तमोभिनिघ्नाय घृणये लोकसाक्षिणे || २१ ||
नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः || २२ ||
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित:।
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् || २३ ||
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः || २४ ||
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चित् नावसीदति राघव || २५ ||
पूजयस्वैनमेकाग्र: देवदेवं  जगत्पतिम् ।
एतत्रिगुणितम् जप्त्वा युद्धेषु विजयिष्यसि || २६ ||
अस्मिन्क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् || २७ ||
एतत्छ्ुत्वा  महातेजा नष्टशोको अभवत्तदा ।
धारयामास सुप्रीतः राघवः प्रयतात्मवान् || २८ ||
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षं अवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् || २९ ||
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे तस्य घृतोSभवत् || ३० ||
अथ रविः अवदद निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति || ३१ ||

इत्यार्षे श्रीमद्रामायणे वाल्मिकीये आदिकाव्ये युद्धकाण्डे सप्तोतरशततमः सर्गः || 

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा || 
……

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.