Thursday, February 26, 2015

Mantra Pushpam......

Mantra Pushpam
and browse through Mantra here-below
|| मंत्र पुष्पम् ||

योSपां पुष्पं वेद । पुष्पवान् प्रजावान् पशुमान् भवति । 
चन्द्रमा वा अपां पुष्पम् । पुष्पवान् प्रजावान् पशुमान् भवति । 
य एवं वेद । योSपां आयतनम् वेद । आयतनवान् भवति । 

अग्निर्वा अपामायतनम् । आयतनवान् भवति । 
योSग्नेरायतनम् वेद । आयतनवान् भवति । 
आपोवा अग्नेरायतनम्। आयतनवान् भवति । 
य एवं वेद । योSपां आयतनम् वेद । आयतनवान् भवति । 

वायुर्वा अपामायतनम् । आयतनवान् भवति । 
यो वायोरायतनम् वेद । आयतनवान् भवति ।  
आपो वै वायोरायतनम्। आयतनवान् भवति । 
य एवं वेद । योSपां आयतनम् वेद । आयतनवान् भवति । 

असौ वै तपन्नपामायतनम् । आयतनवान् भवति ।  
योSमुष्य  तपत आयतनम् वेद । आयतनवान् भवति । 
आपो वा अमुष्य तपत आयतनम्। आयतनवान् भवति ।
य एवं वेद । योSपां आयतनम् वेद । आयतनवान् भवति । 

चन्द्रमावा अपामायतनम् । आयतनवान् भवति ।
यश्चन्द्रमस आयतनम् वेद । आयतनवान् भवति । 
आपो वै चन्द्रमस आयतनम् । आयतनवान् भवति ।
य एवं वेद । योSपां आयतनम् वेद । आयतनवान् भवति । 

नक्षत्राणि वा अपामायतनम् । आयतनवान् भवति ।
यो नक्षत्राणाम् आयतनम् वेद । आयतनवान् भवति । 
आपो वै नक्षत्राणाम् आयतनम् । आयतनवान् भवति ।
य एवं वेद । योSपां आयतनम् वेद । आयतनवान् भवति ।

पर्जन्यो वा अपामायतनम् । आयतनवान् भवति ।
यः पर्जन्यस्य आयतनम् वेद । आयतनवान् भवति । 
आपो वै पर्जन्यस्य आयतनम् । आयतनवान् भवति ।
य एवं वेद । योSपां आयतनम् वेद । आयतनवान् भवति ।

संवत्सरो वा अपामायतनम् । आयतनवान् भवति ।
यः संवत्सरस्य आयतनम् वेद । आयतनवान् भवति । 
आपो वै संवत्सरस्य आयतनम् । आयतनवान् भवति ।
य एवं वेद । योSप्सु नावं प्रतिष्ठिताम् वेद । प्रत्येव तिष्ठति । 

ॐ राजाधिराजाय प्रसह्यसाहिने । 
नमो वयं वै श्रवणाय कुर्महे । 
स में कामान् कामकामाय मह्यम् । 
कामेश्वरो वै श्रवणो ददातु । 
कुबेराय वै श्रवणाय। 
महाराजाय नमः । 
ॐ शांतिः शांतिः शांतिः|| 
…… 

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.