Sunday, March 22, 2015

Gayatri Mantra ...... गायत्री मंत्र:

|| गायत्री मंत्र:  ||

अस्य श्री गायत्री महामन्त्रस्य |
अंगन्यास 
सावित्र्या ऋषि:-विश्वामित्रः | निचृद्गायत्री छन्द:|  सविता देवता
तत्सवितुर्वरेण्यं बीजं | धियो यो नः प्रचोदयात् शक्ति:| भर्गो देवस्य धीमहि कीलकम्
गायत्री-प्रसाद-सिद्धयर्थे जपे विनियोग:||
 
करन्यास:
तत्सवितुर्ब्रह्मात्मने अंगुष्ठाभ्यां नमः ।  वरेण्यं विष्णवात्मने तर्जनीभ्यां नमः ।
भर्गोदेवस्य रुद्रात्मने मध्यमाभ्यां नमः । 
धीमहि ईश्वरात्मने अनामिकाभ्यां नमः । धियो यो नः सदाशिवात्मने कनिष्ठिकाभ्यां नमः । 
प्रचोदयात् परमात्मने करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
तत्सवितुर्ब्रह्मात्मने हृदयाय नमः । वरेण्यं विष्णवात्मने शिरसे स्वाहा ।
भर्गोदेवस्य रुद्रात्मने शिखायै वषट् । 
धीमहि ईश्वरात्मने कवचाय हुं । धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट् ।
प्रचोदयात् परमात्मने अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
मुक्ता विद्रुमहेम नील धवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिन्दुकलां 
निबद्धरत्नमकुटां तत्वार्थ-वर्णात्मिकाम् । 
गायत्रीं वरदांSभयांकुशकशा: शुभ्रं कपालं गदां
शंखं चक्रमथारविंदयुगळम् हस्तैर्वहन्तीं भजे || 

अक्षस्रक्-कुण्टिकां-हस्तां शुद्धस्फटिक-निर्मलाम् ।
सर्वविद्या- मयीं वन्दे गायत्रीं वेदमातरम् ||
यो देवः सवितास्माकं धियोधर्माधि गोचराः ।
प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्यमुपास्महे ||

लं पृथिव्यात्मिकायै गन्धं समर्पयामि 
हं आकाशात्मिकायै पुष्पैः पूजयामि 
यं वाय्वात्मिकायै धूपमाघ्रापयामि 
रं अग्न्यात्मिकायै दीपं दर्शयामि 
वं अमृतात्मिकायै अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मिकायै सर्वोपचार पूजां समर्पयामि 
मंत्र:||

ॐ । भूर्भुवः स्वः । तत्सवितुर्वरेण्यम् । 
भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् || 

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
 गुह्याति-गुह्य-गोप्त्री-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवी
त्वत्प्रसादान्मयि स्थिरा ||

उपस्थानम् ||
उत्तमे शिखरे देवि भूम्यां पर्वतमूर्धनि । 
ब्राह्मणेभ्यो हनुज्ञानं गच्छ देवि यथा सुखम् ||
.....

1 comment:

  1. The exalted Gayatri mantra is the protector mother goddess of Sanatana Dharma.

    ReplyDelete

Note: Only a member of this blog may post a comment.