Saturday, March 14, 2015

Prayer to Sun ... Yudhisthira .... अक्षय-पात्र

Dharmaraj Yudhistir offered prayers to
Lord Suryadeva
reciting the 108 names and obtained 
akshaya-patra अक्षय-पात्र 
which helped the Pandavas thru thick & thin during their exile


ॐ सूर्योSर्यमा भगस्त्वष्टा पूषार्क : सविता रविः ।
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ||१ || 
पृथ्वियापश्च तेजश्च खं वायुश्च परायणं ।
सोमो बृहस्पतिः शुक्रो बुधोSङ्गारक एव च  ||२ ||
इन्द्रो विवस्वांदीप्तांशु : शुचिः सौरिः शनैश्चरः ।
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो  वैश्रवणो यमः ||३ ||
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां  पतिः ।
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ||४ ||
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ।
कलाकाष्ठामुहूर्ताश्च क्षपा यामास्तथा क्षणाः ||५ ||
 संवत्सरकरोSश्वत्थः कालचक्रो विभावसुः । 
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ||६ ||
कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः ।
वरुणः सागरोंSशश्च जीमूतो जीवनोSरिहा ||७ ||
भूताश्रयो भूतपतिः सर्वलोक नमस्कृतः । 
स्त्रष्टा संवर्तको वन्हिः सर्वस्यादिरलोलुपः ||८ ||
 अनन्तः कपिलोभानुः कामदः सर्वतोमुखः ।
जयो विशालो वरद: सर्वभूतनिषेवितः ।|९||
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः ।
धन्वन्तरिर्धूमकेतुरादिदेवोSदिते: सुतः ||१० ||
द्वादशात्मा रविर्दक्ष: पिता माता पितामह: ।
स्वर्गद्वारम् प्रजाद्वारम् मोक्षद्वारम् त्रिविष्टपम् ||११ ||
देहकर्ता प्रशांतात्मा विश्वात्मा विश्वतोमुखः ।
चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः ||१२||
विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः ।
लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्महेश्वरः ||१३ ||
लोकसाक्षी त्रिलोकेश: कर्ता हर्ता तमिस्त्रहा ।
तपनस्तापनश्चैव  शुचिः सप्ताश्ववाहनः ||१४||
गभस्तिहस्तो ब्रह्मा च सर्वदेव नमस्कृत:।
एकविंशतिरित्येष स्तव  इष्टः सदा रवेः ||१५ ||
.......  

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.