Monday, March 23, 2015

Sri Ram-Raksha Mantra.....श्री रामरक्षा महामन्त्रः

।। श्रीरामरक्षा महामन्त्रः ।।

अस्य श्रीरामरक्षा - महामन्त्रस्य |
अंगन्यास 
बुधकौशिक ऋषि:| गायत्री छन्द:|  श्रीरामचन्द्रो देवता
श्रीराम इति बीजं | जय जय राम इति शक्ति:| जय राम इति कीलकम्
श्रीरामचन्द्र-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
श्रीराम  अंगुष्ठाभ्यां नमः । जय राम  तर्जनीभ्यां नमः । जय जय राम मध्यमाभ्यां नमः । 
श्रीराम अनामिकाभ्यां नमः । जय राम कनिष्ठिकाभ्यां नमः । 
जय जय राम करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
श्रीराम हृदयाय नमः । जय राम  शिरसे स्वाहा । जय जय राम मंशिखायै वषट् । 
श्रीराम कवचाय हुं । जय राम नेत्रत्रयाय वौषट् । जय जय राम अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
शान्तं शाश्वतं प्रमेयमनघं निर्वाण-शांतिप्रदं
ब्रह्मा-शंभु-फणीन्द्र-सेव्य-मनिशं वेदान्तवेद्यं विभुम् । 
रामाख्यं जगदीश्वरं सुरगुरुं माया-मनुष्यं हरिं 
वन्देSहं करुणाकरं रघुवरं भूपाल-चूड़ामणिम् || 

लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 
मंत्र:|| 
 ।|  श्रीराम,  जय राम,  जय जय राम |।

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा ||  

नान्या स्पृहा रघुपते हृदयेSस्मदीये 
सत्यं वदामि च भवान् अखिलान्तरात्मा ।
भक्तिं प्रयच्छ रघुपुंगव निर्भरां मे
कामादि-दोष-रहितं कुरु मानसं च ||


.....

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.