Tuesday, March 24, 2015

Sri Ram-Taarak Mantra .......श्री रामतारक मन्त्रः

।| श्री रामतारक मन्त्रः |।
अस्य श्रीरामतारक - महामन्त्रस्य |
ब्रह्मा  ऋषि:| गायत्री छन्द:|  श्रीरामो देवता
रां  बीजं | रीं शक्ति:| रुं कीलकम्
श्रीरामचन्द्र-प्रसाद-सिद्धयर्थे जपे विनियोग:||
  
करन्यास:
रां अंगुष्ठाभ्यां नमः । रीं  तर्जनीभ्यां नमः । रुं मध्यमाभ्यां नमः । 
रैं अनामिकाभ्यां नमः । रौं  कनिष्ठिकाभ्यां नमः । 
र:  करतल-करपृष्ठाभ्यां नमः |
हृदयादि न्यास:
रां हृदयाय नमः । रीं  शिरसे स्वाहा । रुं मंशिखायै वषट् । 
रैं कवचाय हुं । रौं नेत्रत्रयाय वौषट् । र:  अस्त्राय फट् |

भूर्भुवस्वरोमिति दिग्बंध्:|| ध्यानम् ||
कालाम्भोधर-कान्ति-कान्त-मनिशं वीरासनाध्यासिनम् 
मुद्रां ज्ञानमयीम् दधानमपरं हस्ताम्बुजम् जानुनि । 
सीताम् पार्श्वगताम् सरोरुहकरां विद्युन्निभां राघवं 
पश्यन्तं मुकुटांगदादि-विविधैः कल्पोज्ज्वलांगम् भजे ||

लं पृथिव्यात्मने गन्धं समर्पयामि 
हं आकाशात्मने पुष्पैः पूजयामि 
यं वाय्वात्मने धूपमाघ्रापयामि 
रं अग्न्यात्मने दीपं दर्शयामि 
वं अमृतात्मने अमृतं महानैवेद्यम निवेदयामि 
सं सर्वात्मने सर्वोपचार पूजां समर्पयामि 
मंत्र:|| 
 ।|  रां  रामाय  नम: |।

भूर्भुवस्वरोमिति दिग्विमोक्: || ध्यानम् ||
समर्पणम् || 
गुह्याति-गुह्य-गोप्ता-त्वं
गृहाणास्मितकृतम् जपं
सिद्धिर्भवतु मे देवो
त्वत्प्रसादान्मयि स्थिरा ||  
.....

1 comment:

Note: Only a member of this blog may post a comment.